Welcome to my blog :)

rss

Saturday, September 22, 2012

Subhashitam (Pratinityam Subhashitam) -17































भार्या यस्य गृहे नित्यम् अतीव परिगर्विता
तस्य लक्ष्मीः क्षयं याति कृष्ण-पक्षे यथा शशी ।।६५९।। [?]
कर्मणा लभ्यते चिन्तया वा नाप्य् अस्य दाता पुरुषस्य कश्चित्
पर्याय योगाद् विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ।।६६०।। [.भा. १२.२६.]
भोक्तुं पुरुषकारेण दुष्ट-स्त्रियम् इव श्रियम्
व्यवसायं सदैवेच्छेन् हि क्लीबवद् आचरेत् ।।६६१।।� [का.नी. १३.१०]
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ।।६६२।। [.भा. .३६.५८]
कुर्मः किल्बिषम् एतद् एव हृदये कृत्वेति कौतूहलात् स्वैरिण्यः क्षितिपाश् धिक् चपलतां क्रौर्यं कुर्युः सकृत्
पापाक्रान्त-धियो भवन्त्य् अथ यथा नान्त्यान् स्पृशन्त्योऽपि ता दूयन्ते ते यथा स्व-पितरौ घ्नन्तोऽपि शान्त-त्रपाः ।।६६३।। [रा.. .६२६]
दुर्भिक्षाद् एव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम्
मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ।।६६४।। [.भा. १२.१७४.]
बहवोऽविनयान् नष्टा राजानः -परिच्छदाः
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ।।६६५।। [मनु. .४०]
जल-रेखा खल-प्रीतिर् अर्ध-वारि-घट-स्थता
शिरसा धार्यमाणोऽपि खलः खलखलायते ।।६६६।। [?]
जीवन्तं मृतवन् मन्ये देहिनं धर्म-वर्जितम्
मृतो धर्मेण संयुक्तो दीर्घ-जीवी संशयः ।।६६७।। [बृ.चा. १३.]
वाचा दुर्गमः पारः कार्याणां राक्षसाधम
कार्याणां कर्मणा पारं यो गच्छति बुद्धिमान् ।।६६८।।
नयेन जाग्रत्य् अनिशं नरेश्वरे सुखं स्वपन्तीह निराधयः प्रजाः
प्रमत्त-चित्ते स्वपतीह सम्भ्रमात् प्रजागरेणास्य जगत् प्रबुध्यते ।।६६९।। [का.नी. .५८]
चिता दहति निर्जीवं चिन्ता जीवं दहत्य् अहो
बिन्दुनैवाधिका चिन्ता चितात्यल्पा हि भूतले ।।६७०।। [प्र.. १७]
कुलं वृत्ति हीनस्य प्रमाणम् इति मे मतिः
अन्त्येष्व् अपि हि जातानां वृत्तम् एव विशिष्यते ।।६७१।। [.भा. .३२.२२]
दुर्बुद्धिम् अकृत-प्रज्ञं छन्नं कूपं तृणैर् इव
विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति ।।६७२।। [.भा. .३९.३५]
सा प्रीतिर् दिविष्ठस्य सर्व-कामान् उपाश्नतः
अभवद् या परा प्रीतिर् गङ्गायाः पुलिने नृणाम् ।।६७३।। [.भा. १३.२७.५९]
तीर्थ-स्थितः स्व-कुलजांस् तिमिर् अत्ति भुङ्क्ते मौनी बकस् तिमिम् उपेत्य वनान्त-वासी
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्राण्य् उपर्य् उपरि वञ्चन-चञ्चुतायाम् ।।६७४।। [रा.. .३०४]
एतल् लब्धम् इदं लभ्यम् अधिकं मूल्य-लभ्यं ततो लभ्यं चापरम् इत्य् अनारतम् अहो लभ्यं धनं ध्यायसि
नैतद् वेत्सि पुनर् भवन्तम् अचिराद् आशा-पिशाची बलात् सर्व-ग्रासम् इयं ग्रसिष्यति महा-मोहान्धकारावृतम् ।।६७५।। [?]
पूर्वं सम्मानना यत्र पश्चाच् चैव विमानना
जह्यात् तत् सत्त्ववान् स्थानं शत्रोः संमानितोऽपि सन् ।।६७६।।
धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम्
धर्मेण लभ्यते सर्वं धर्म-सारम् इदं जगत् ।।६७७।। [रा. ..३०]
वैराण्य् अभिजानन्ति गुणान् पश्यन्ति नागुणान्
विरोधं नाधिगच्छन्ति ये उत्तम-पूरुषाः ।।६७८।। [.भा. .६५.]
क्षीणो रविम् अवति शशी वृद्धौ वर्धयति पयसां नाथम्
अन्ये विपदि सहाया धनिनां श्रियम् अनुभवन्त्य् अन्ये ।।६७९।। [पञ्च. .]
कुभार्यां कुपुत्रं कुराजानं कुसौहृदम्
कुसम्बन्धं कुदेशं दूरतः परिवर्जयेत् ।।६८०।। [.भा. १२]
किं कुलेन विशालेन शीलम् एवात्र कारणम्
कृमयः किं जायन्ते कुसुमेषु सुगन्धिषु ।।६८१।। [शा.. १४८५]
हि कस्य प्रियः को वा विप्रियो वा जगत्-त्रये
काले कार्य-वाशात् सर्वे भवन्त्य् एवाप्रियाः प्रियाः ।।६८२।। [ब्र.वै.पु. जन्मखण्ड]
तीक्ष्णोपाय-प्रान्त-गम्योऽपि योऽर्थस् तस्याप्य् आदौ संश्रयः साधु-युक्तः
उत्तुङ्गाग्रः सार-भूतो वनानां सालोऽभ्यर्च्य च्छिद्यते पादपेन्द्रः ।।६८३।। [?]
नापितस्य गृहे क्षौरं पाषाणे गन्ध-लेपनम्
आत्म-रूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ।।६८४।। [?]
पुन्-नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा ।।६८५।।� [.भा. .६८.३८]
धर्माख्याने श्मशाने रोगिणां या मतिर् भवेत्
सा सर्वदैव तिष्ठेच् चेत् को मुच्येत बन्धनात् ।।६८६।। [बृ.चा. १४.]
कालो हेतुं विकुरुते स्वार्थस् तम् अनुवर्तते
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ।।६८७।। [.भा. १२.१३६.१५१]
स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः
दत्त्वा पश्चात् कुरुतेऽनुतापं कत्थते सत्-पुरुषार्य शीलः ।।६८८।। [.भा. .३३.९४]
तिलार्धं स्वीय-भागश् निःसारं बदरी-फलम्
आहारात् परतः श्रेयो धूलिः पर-गृहाद् अपि ।।६८९।। [चाणक्य ६६]
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्
सैव नौः सागरस्येव वणिजः पारम् ऋच्छतः ।।६९०।। [.भा. .३२.२२]
स्कन्दते व्यथते विनश्यति कर्हि चित्
वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ।।६९१।। [मनु. .८४]
दोग्धव्यं मित्रेषु विश्वस्तेषु कर्हिचित्
येषां चान्नानि भुञ्जीत यत्र स्यात् प्रतिश्रयः ।।६९२।। [?]
किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः
पश्याम्र-फल-संसर्गी कषायो मधुरः कुतः ।।६९३।। [?]
धर्मात्मनः शुभैर् वृत्तैः क्रतुभिश् चाप्त-दक्षिणैः
धूत-पापा गताः स्वर्गं पितामह-निषेवितम् ।।६९४।। [.गो. .११४.१८]
विश्वासाज् जातु परस्य गेहं गच्छेन् नरश् चेतयानो विकाले
चत्वरे निशि तिष्ठेन् निगूढो राजन्यां योषितं प्रार्थयीत ।।६९५।। [.भा. .३७.२६]
वध्यन्ते ह्य् अविश्वस्ताः शत्रुभिर् दुर्बला अपि
विश्वस्तास् तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ।।६९६।। [?]
वैरम् उद्दीपयति प्रशान्तं दर्मम् आरोहति नास्तम् एति
दुर्गतोऽस्मीति करोति मन्युं तम् आर्य शीलं परम् आहुर् अग्र्यम् ।।६९७।। [.भा. .३३.९३]
काले मृदुर् यो भवति काले भवति दारुणः
वै सुखम् अवाप्नोति लोकेऽमुष्मिन्न् इहैव ।।६९८।। [.भा. १२.१३८.६६]
चिकीर्षितं विप्रकृतं यस्य नान्ये जनाः कर्म जानन्ति किञ्चित्
मन्त्रे गुप्ते सम्यग् अनुष्ठिते स्वल्पो नास्य व्यथते कश् चिद् अर्थः ।।६९९।। [.भा. .३३.१००]
धनेनाधर्म-लब्धेन यच् छिद्रम् अपिधीयते
असंवृतं तद् भवति ततोऽन्यद् अवदीर्यते ।।७००।। [.भा. .३५.६०]
मद-रक्तस्य हंसस्य कोकिलस्य शिखण्डिनः
हरन्ति तथा वाचो यथा साधु विपश्चिताम् ।।७०१।। [.भा. .?]
स्पृशत्य् आयुधं जातु स्त्रीणां स्तन-मण्डलम्
अमनुष्यस्य कस्यापि हस्तोऽयं किलाफलः ।।७०२।। [काव्या. .१२१]
कोश-मूलो हि राजेति प्रवादः सार्वलौकिकः
एतत् सर्वं जहातीह कोश-व्यसनवान् नृपः ।।७०३।। [का.नी. १३.३३]
कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर् जलदान् उपैति
कालेन पद्मोत्पलवज् जलं कालेन पुष्पन्ति नगा वनेषु ।।७०४।। [.भा. १२.२६.]
त्वम् एव धातुः पूर्वोऽसि त्वम् एव प्रत्ययः परः
अनाख्यातं ते किञ्चिन् नाथ केनोपमीयसे ।।७०५।। [सर्वस्व.टी. १६.७५१]
क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्व-सम्पन्न-सस्या पर्जन्यः काल-वर्षी सकल-जन-मनो-नन्दिनो वान्तु वाताः
मोदन्तां जन्म-भाजः सततम् अभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमित-रिपवो धर्म-निष्ठाश् भूपाः ।।७०६।।
इति श्री-सुभाषित-रत्न-भाण्डागारे सप्तमं सङ्कीर्ण-प्रकरणं
।। समाप्तोऽयं ग्रन्थः ।।

















Om Tat Sat

End



(My humble salutations to  the lotus feet of Holy Sages of Hindu soil for the collection)

0 comments:

Post a Comment