Welcome to my blog :)

rss

Friday, September 14, 2012

Subhashitam (Pratinityam Subhashitam) -13









कालिदास-कविता नवं वयो माहिषं दधि -शर्करं पयः
एण-मांसम् अबला कोमला सम्भवन्तु मम जन्म-जन्मनि ।।२९०।। [पद्य.सं. १५]
उपायो जयो यादृग् रिपोस् तादृङ् हेतिभिः
उपाय-ज्ञोऽल्प-कायोऽपि शूरैः परिभूयते ।।२९१।। [?]
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत्
विजयस्य ह्य् अनित्यत्वाद् रभसेन सम्पतेत् ।।२९२।। [का.नी. १०.३१]
नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः
अघोऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् ।।२९३।। [भा.पु. १०.१२.३८]
ये बाल-भावान् पठन्ति विद्यां ये यौवनस्ह्ता ह्य् अधनात्म-दाराः
ते शोचनीया इह जीव-लोके मनुष्य-रूपेण मृगाश् चरन्ति ।।२९४।। [विक्रम १२३]
दमेन हीनं पुनन्ति वेदा यद्यप्य् अधीताः सह षड्भिर् अङ्गैः
साङ्ख्यं योगश् कुलं जन्म तीर्थाभिषेकश् निरर्थकानि ।।२९५।। [पद्म.सृष्टि. १९]
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः
तत्-संघातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये ।।२९६।।
शत्रोर् अपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर् मनुष्यैः
तान्य् एव कालेषु विपत्-कराणि विषस्य पात्राण्य् अपि दारुणानि ।।२९७।। [बृ.नीति. ११०]
ऋतेन जीवेद् अनृतेन जीवेन् मितेन जीवेत् प्रमितेन जीवेत्
सत्यानृताभ्याम् अथवापि जीवेत् श्व-वृत्तिम् एकां परिवर्जयेत् तु ।।२९८।। [?]
अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः
अमानुषेभ्यो मानुषाश् प्रधाना विद्वांस् तथैवाविदुषः प्रधानः ।।२९९।। [.भा. .८२.]
नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन
यथा मैत्री लोकेषु दानं मधुरा वाक् ।।३००।। [मत्स्य.. ३६]

तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः
यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः ।।३०१।। [भा.पु. ११.२३.]
शूरत्व-युक्ता मृदु-मन्द-वाक्या जितेन्द्रियाः सत्य-पराक्रमाश्
प्राग् एव पश्चाद् विपरीत-रूपा ये ते तु भृत्या हिता भवन्ति ।।३०२।। [?]
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके स्व-धीः कलत्रादिषु भौम इज्य-धीः
यत्-तीर्थ-बुद्धिः सलिले कर्हिचिज् जनेष्व् अभिज्ञेषु एव गो-खरः ।।३०३।। [भा.पु. १०.८४.१३]
कं योजयेन् मनुजोऽर्थं लभेत निपातयन् नष्ट-दशं हि गर्ते
एवं नराणां विषय-स्पृहा निपातयन् निरये त्व् अन्ध-कूपे ।।३०४।। [?]
तान् वीक्ष्य कृष्णः सकलाभय-प्रदो ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान्
दीनांश् मृत्योर् जठराग्नि-घासान् घृणार्दितो दिष्ट-कृतेन विस्मितः ।।३०५।। [भा.पु. १०.१२.२७]
लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् योऽर्थान् समीहेत निकाम-कामः
अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं वेद मूढः ।।३०६।। [भा.पु. ..१६]
सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्य् उपबर्हणैः किम्
सत्य् अञ्जलौ किं पुरुधान्न-पात्र्या दिग्-वल्कलादौ सति किं दुकूलैः ।।३०७।। [भा.पु. ..]
भूतैर् आक्र्मयमाणोऽपि धीरो दैव-वशानुगैः
तद्-विद्वान् चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ।।३०८।। [भा.पु. ११..३७]
प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः
ज्ञानं यथा नश्येत नावकीर्येत वाङ्-मनः ।।३०९।। [भा.पु. ११..३९]
गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति
तेषु युज्यते योगी गोभिर् गा इव गो-पतिःच् ।।३१०।। [भा.पु. ११..५०]
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं स्पृशत्य् अनर्थापगमो यद्-अर्थः
महीयसां पाद-रजो-ऽभिषेकं निष्किञ्चनानां वृणीत यावत् ।।३११।। [भा.पु. ..३२]
नवनीतोपमा वाणी करुणा-कोमलं मनः
धर्म-बीज-प्रसूतानाम् एतत् प्रत्यक्ष-लक्षणम् ।।३१२।। [सूक्ति १३०.]
कोकिलानां स्वरो रूपं नारी-रूपं पतिव्रता
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ।।३१३।।
किं जीवितेन धन-मान-विवर्जितेन मित्रेण किं भवति भीति-सशङ्कितेन
सिंह-व्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं बलिं भुङ्क्ते ।।३१४।।
तन् मङ्गलं यत्र मनः प्रसन्नं तज् जीवनं यन् परस्य सेवा
तद् गर्जितं यत् स्वजनेन भुक्तं तद् वर्जितं यत् समरे रिपूणाम् ।।३१५।। [?]

वेदादि-शास्त्रम् अखिलं प्रपठन्तु लोकाः कुर्वन्तु नाम क्षिति-पाल-सेवाम्
उग्रं तपः प्रतिदिवं प्रतिसाधयन्तु श्रीस् तथापि भजत्य् अतिभाग्य-हीनम् ।।३१६।। [.पु. ..१५६]
त्यक्त्वालसान् दैव-परान् मनुष्यान् उत्थान-युक्तान् पुरुषाद् धि लक्ष्मीः
अन्विष्य यत्नाद् वृणुयान् नृपेन्द्र त्स्मात् सदोत्थानवता हि भाव्यम् ।।३१७।। [?]
नित्यं छेदस् तृणानां धरणि-विलिल्खनं पादयोश् चाप-मार्ष्टिर् दन्तानाम् अल्प-शौचं मलिन-वसनता रूक्षता मूर्धजानाम्
द्वैसन्ध्ये चापि निद्रा विवसन-शयनं ग्रास-हासातिरेकः स्वाङ्गे पीठे वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ।।३१८।। [अष्टरत्न ]
कुचैलिनं दन्तम् अलोप-धारिणं बह्व्-आशिनं निष्ठुर-भाषिणं
सूर्योदये चास्तम् इते शयानं विमुञ्चति श्रीर् यदि चक्रपाणिः ।।३१९।। [बृ.चा. १५.]
तद्-वीर्याद् अधिकं यस् तु पुनर् अन्यत् स्व-शक्तितः
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ।।३२०।। [?]
भिक्षाशी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा दानादान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः
रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनैर् आस्यूत-कन्थाधरो निर्मानो निरहङ्कृतिः शम-सुधा-भोगैक-बद्ध-स्पृहः ।।३२१।। [?]
रोहते सायकैर् विद्धं छिन्नं रोहति चासिना
वचो दुरुक्तं बीभत्सं प्ररोहति वाक्-क्षतम् ।।३२२।। [पञ्च. .१११]
शय्या शैल-शिला-गृहं गिरि-गुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षिति-रुहां वृत्तिः फलैः कोमलैः
येसां निर्झरम् अम्बु-पानम् उचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो सेवाञ्जलिः ।।३२३।। [वै.. ८७]
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये
सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ।।३२४।। [पञ्च. .२२०]
ताम्बूलं कटु-तिक्त-मिश्र-मधुरं क्षारं कषायान्वितं वात-घ्नं कफ-नाशनं कृमि-हरं दौर्गन्ध्य-दोषापहम्
वक्त्रस्याभरणं मलापहरणं कामाग्नि-सन्दीपनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्य् अमी दुर्लभाः ।।३२५।। [शा.. १४१६]
यः पित्रा समुपात्तानि धन-वीर्य-यशांसि वै
न्यूनतां नयति प्राज्ञस् तम् आहुः पुरुषाधमम् ।।३२६।। [मार्क.पु. २१.९५]
भोगा भङ्गुर-वृत्तयो बहुविधास् तैर् एव चायं भवस् तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः
आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्धेयम् अस्मद्-वचः ।।३२७।। [वै.. ३९]
लज्जां गुणौघ-जननीं जननीम् इव स्वाम् अत्यन्त-शुद्ध-हृदयाम् अनुवर्तमानाः
तेजस्विनः सुखम् असून् अपि सन्त्यजन्ति सत्य-व्रत-व्यसनिनो पुनः प्रतिज्ञाम् ।।३२८।। [भर्तृ.सं ३१८]
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम् ।।३२९।। [पञ्च. .२१८]
आत्म-भाग्य-क्षत-द्रव्यः स्त्री-द्रव्येणानुकम्पितः
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ।।३३०।। [?]
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेश-सहिष्णुता
सन्तोषः शीलम् उत्साहो मण्डयन्त्य् अनुजीविनम् ।।३३१।।
यद् उपात्तं यशः पित्रा धनं वीर्यम् अथापि वा
तन् हापयते यस् तु नरो मध्यमः स्मृतः ।।३३२।।

राज्ञो विपद् बन्धु-वियोग-दुःखं देश-च्युतिर् दुर्गम-मार्ग-खेदः
आस्वाद्यतेऽस्याः कटु निष्फलायाः फलं मयैतच् चिर-जीवितायाः ।।३३४।। [दश-रूपक]
वीत-व्यसनम् अश्रान्तं महोत्साहं महा-मतिम्
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिम् इवापगाः ।।३३५।।
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ।।३३६।।
के वा सन्ति तामरसावतंसा हंसावली-वलयिनो जल-संनिवेशाः
किं चातकः फलम् अपेक्ष्य सवज्र-पातां पौरन्दरीम् उपगतो नव-वारिधाराम् ।।३३७।।
मानम् उद्वहतः पुंसो वरम् आपत्-पदे पदे
मान-हीनं सुरैह् सार्धं विमानम् अपि सन्त्यजेत् ।।३३८।। [भर्तृ.सं. ६४८]
पुनर् दाराः पुनर् वित्तं पुनर् क्षेत्रं पुनः पुनः
पुनः शुभाशुभं कर्म शरीरं पुनः पुनः ।।३३९।। [बृ.चा. १४.]

१०
रथः शरीरं पुरुषस्य राजन्न् आत्मा नियन्तेन्द्रियान्य् अस्य चाश्वाः
तैर् अप्रमत्तः कुशली सद्-अश्वैर् दान्तैः सुखं याति रथीव धीरः ।।३४०।। [.भा. .३४.५७]
विधात्रा रचिता रेखा ललाटेऽक्षर-मालिका
तां मार्जयितुं शक्तः स्व-बुद्ध्याप्य् अतिपण्डितः ।।३४१।। [पञ्च. .१८०]

सत्यं जना वच्मि पक्षपाताल् लोकेषु सर्वेषु च११ तथ्यम् एतत्
नान्यन् मनो-हारि नितम्बिनीभ्यो दुःखस्य हेतुर् कश्चिद् अन्यः ।।३४२।। [शृ.. ४०]
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः मदाद् दास्येन निर्विद्यते
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः नृपतेः प्राणान् अभिद्रुह्यति ।।३४३।।
सत्यम् एव व्रतं यस्य दया दीनेषु सर्वथा
काम-क्रोधौ वशे यस्य तेन लोक-त्रयं जितम् ।।३४४।। [महानिर्वाणतन्त्र २१]
परं क्षिपति दोषेण वर्तमानः स्वयं तथा
यश् क्रुध्यत्य् अनीशः सन् मूढतमो नरः ।।३४५।। [.भा. .३३.३६]
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्
सन्निमित्तं वरं त्यागो विनाशे नियते सति ।।३४६।।
संनियच्छति यो वेगम् उत्थितं क्रोधहर्षयोः
श्रियो भाजनं राजन्यश् चापत्सु मुह्यति ।।३४७।। [.भा. .३७.४७]
परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सद्-उपदेशम्
यास् तेषां स्वैर-कथास् ता एव भवन्ति शास्त्राणि ।।३४८।।
श्रीर् मङ्गलात् प्रभवति प्रागल्भ्यात् संप्रवर्धते
दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ।।३४९।। [.भा. .३५.४४]
पञ्चभिः सम्भृतः कायो यदि पञ्चत्वम् आगतः
कर्मभिः स्व-शरीरोत्थैस् तत्र का परिदेवना ।।३५०।। [हि. .७७]

१२
धन-हेतोर् ईहते तस्यानीहा गरीयसी
भूयान् दोषो हि वित्तस्य यश् धर्मस् तद्-आश्रयः ।।३५१।।
वाचां शौचं मनसः शौचम् इन्द्रिय-निग्रहः
सर्व-भूत-दया-शौचम् एतच् छौचं परार्थिनाम् ।।३५२।। [बृ.चा. .२०]
हृष्यन्ति देवताः सर्वा गयन्ति ऋषयस् तथा
नृत्यन्ति पितरः सर्वे ह्य् अतिथौ गृहम् आगते ।।३५३।। [चा.नी.सा. ५१]
दुर्वृत्तं वा सुवृत्तं वा सर्व-पाप-रतं तथा
भर्तारं तारयत्य् एव भार्या धर्मेषु निष्ठिता ।।३५४।।
भिक्षा दुष्प्रापा पथि मम महाराम-चरिते फलैः सम्पूर्णा भूर् अपि मृग-सुचर्मापि वसनम्
सुखैर् वा दुःखैर् वा सदृश-परिपाकः खलु सदा त्रिनेत्रं कस् त्यक्त्वा धन-लव-मदान्धं प्रणमति ।।३५५।। [भर्तृ.सं.]
यद्य् अपि भ्रातरः क्रुद्धा मार्या वा कारणान्तरे
स्वभावतस् ते प्रीयन्ते नेतरः प्रीयते जनः ।।३५६।। [.भा. १२.१३६.१४७]
ललाट-देशे रुधिरं स्रवत् तु शूरस्य यस्य प्रविशेच् वक्त्रे
तत् सोम-पानेन समं भवेच् सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ।।३५७]

।। [पञ्च. .३३४]
मीनः स्नान-परः फणी पवन-भुङ् मेषश् पर्णाशनो गर्ते तिष्ठति मूषिकोऽपि विनिप्ने सिंहो बको ध्यानवान्
शश्वद् भ्राम्यति चक्रिगौः परिचरन् दैवः सदा देवलः किं तेषां फलं स्ति तेन तपसा तद् भाव-शुद्धिं कुरु ।।३५८।। [कविता. ६०]
बाहु-वीर्यं बलं राज्ञां ब्रह्मणो ब्राह्म-विद् बली
रूप-यौवन-माधुर्यं स्त्रीणां बलम् अनुत्तमम् ।।३५९।। [बृ.चा. .११]
नश्यतो युध्यतो वापि तावद् भवति जीवितम्
यावद् धातासृजत् पूर्वं यावन् मनसेप्सितम् ।।३६०।। [मार्कण्डेय-पु. .४९]
पतिर् भार्यां संप्रविश्य गर्भो भूत्वेह जायते
जायायास् तद् धि जायात्वं यद् अस्यां जायते पुनः ।।३६१।। [मनु. .]












Om Tat Sat

(Continued ...)



(My humble salutations to  the lotus feet of Holy Sages of Hindu soil for the collection)

0 comments:

Post a Comment