Welcome to my blog :)

rss
Showing posts with label Subhashitam (Pratinityam Subhashitam) -12. Show all posts
Showing posts with label Subhashitam (Pratinityam Subhashitam) -12. Show all posts

Tuesday, September 11, 2012

Subhashitam (Pratinityam Subhashitam) -12








1.1        

आश्रिताश् चैव लोकेन समृद्धिं यान्ति विद्विषः
समृद्धाश् विनाशाय तस्मान् नोद्वेजयेत् प्रजाः ।।८८।। [?]

1.2          

उद्योगेन विना नैव कार्यं किम् अपि सिध्यति
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।१९८।।

1.3        

एवम् एव कुले जाताः पावकोपम-तेजसः
क्षमावन्तो निराकाराः काष्ठेऽग्निर् इव शेरते ।।११०।। [?]

1.4        

कुरु तनु-बुद्धि-मनःसु वितृष्णाम्
यल् लभसे निज-कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।।१८७।। [मोह-मुद्गर]
क्षेत्र-ग्राम-वनाद्रि-पत्तन-पुरी-द्वीप-क्षमा-मण्डल- प्रत्याशा-धन-सूत्र-बद्ध-मनसां लब्धादिकं ध्यायताम्
तृष्णे देवि यदि प्रसीदसि तनोष्य् अङ्गानि तुङ्गानि चेत् तद् भोः प्राण-भृतां कुतः शम-कथा ब्रह्माण्ड-लक्षैर् अपि ।।८२।। [प्र. ३५]

1.5        

चत्वार्य् आहुर् नर-श्रेष्ठा व्यसनानि महीक्षिताम्
मृगया पानम् अक्षाश् ग्राम्ये चैवातिरक्तता ।।१४५।।
चल-स्वभावा दुःसेव्या दुर्ग्राह्या भावतस् तथा
प्राज्ञस्य पुरुषस्येह यथा वाचस् तथा श्रियः ।।१९५।।

1.6         , ज्ञ

ज्ञातुं वपुः-परिमितः क्षमते त्रिलो़कीम्
जीवः कथं कथय सङ्गतिम् अन्तरेण ।।

1.7        

दातुस् तत् तद् अभीप्सितं किल फलन् कालेऽतिचालोऽप्य् असौ राजन् दान-महीरुहो विजयते कल्प-द्रुमादीन् अपि ।।७९।। [सु. ३०२८]
दुर्जनस्य सर्पस्य वरं सर्पो दुर्जनः
सर्पो दशति कालेन दुरजनस् तु पदे पदे ।।९१।। [बृ.चा. .]
द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रम् अधिको विशदात्मनोऽपि
चन्द्रादि पश्यति पुरो द्वि-गुणं प्रकृत्या तेजो-मयं तिमिर-दोष-हतं हि चक्षुः ।।१६९।।
द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रम् अधिको विशदात्मनोऽपि
चन्द्रादि पश्यति पुरो द्वि-गुणं प्रकृत्या तेजो-मयं तिमिर-दोष-हतं हि चक्षुः ।।१६९।।

1.8        

धनवान् क्रोध-लोभाभ्याम् आविष्टो नष्ट-चेतनः
तिर्यग्-ईक्षा शुष्क-मुखः पापको भ्रुकुटी-मुखः ।।९४।। [हि. .१२३]

1.9        

रात्रौ सुखं शेते ससर्प इव वेश्मनि
यः कोपयति निर्दोषं -दोषोऽभ्यन्तरं जनम् ।।१६३।। [.भा. .३८.३७]
शत्रुर् अवज्ञेयो दुर्बलोऽपि बलीयसा
अल्पोऽपि हि दहत्य् अग्निर् विषम् अल्पं हिनस्ति ।।१६६।। [.भा. १२.५८.१७]
पिता नात्मजो नात्मा माता सखी-जनः
इह प्रेत्य नारीणां पतिर् एको गतिः सदा ।।१८१।।
निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ।।१४८।। [.भा. १२.१६९.२४]
नाकालतो भानुर् उपैति योगं नाकालतोऽस्तं गिरिम् अभ्युपैति
नाकालतो हीयते वर्धते चन्द्रः समुद्रोऽपि महोर्मि-माली ।।१०३।। [.भा. १२.२६.१२]
नाकालतो म्रियते जायते वा नाकालतो व्याहरते बालः
नाकालतो यौवनम् अभ्युपैति नाकालतो रोहति बीजम् उप्तम् ।।१०६।। [.भा. १२.२६.११]
नाकाल-मत्ताः खग-पन्नगाश् मृग-द्विपाः शैल-मृगाश् लोके
नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्य् अकाले शिशिरोष्ण-वर्षाः ।।१०९।। [.भा. १२.२६.१०]
नाक्रोशी स्यान् नावमानी परस्य मित्र-द्रोही नोत नीचोपसेवी
चाभिमानी हीन-वृत्तो रूक्षां वाचम् उषतीं वर्जयति ।।११२।। [.भा. .३६.]
निर्दशन्न् अधरोष्ठं क्रुद्धो दारुण-भाषिता
कस् तम् इच्छेत् परिद्रष्टुं दातुम् इच्छति चेन् महीम् ।।९७।। [?]

1.10    

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि
मित्राण्य् अमित्रा मध्यस्था उपजीव्योपजीविनः ।।२०।। [.भा. .१०४६]
परेषाम् आत्मनश् चैव योऽविचार्य बलाबलम्
कार्यायोत्तिष्ठते मोहाद् आपदः समीहते ।।२१।। [पञ्च. .८७]
पञ्चास्यस्य पराभवाय भषको मांसेन गोर्-भूयसा
दध्य्-अन्नैर् अपि पायसैः प्रतिदिनं संवर्धितो यो मया ।।४।। [?]
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद् एकम् इन्द्रियम्
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्राद् इवोदकम् ।।५।। [.भा. .२०४७]
पञ्चैव पूजयन् लोके यशः प्राप्नोति केवलम्
देवान् पितॄन् मनुष्यांश् भिक्षून् अतिथि-पञ्चमान् ।।६।। [.भा. .२०४५]
पति-व्रता पति-प्राणा पत्युः प्रिय-हिते रता
यस्य स्याद् ईदृशी भार्या धन्यः पुरुषो भुवि ।।१२।। [पञ्च. .१४४]
परां विनीतः समुपैति सेव्यतां मही-पतीनां विनयो विभूषणम्
प्रवृत्त-दानो मृदु-सञ्चरत्-करः करीव भद्रो विनयेन शोभते ।।४६।। [का.नी. .६५]
प्रथमा गतिर् आत्मैव द्वितीया गतिर् आत्मजः
सन्तो गतिस् तृतीयोक्ता चतुर्थी धर्म-सञ्चयः ।।१३९।। [रा. .६२]
प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः
एतद् धि ज्ञान-सामर्थ्यं बालैः समताम् इयात् ।।१६०।। [.भा. .१४०७९]
परोक्त-मात्रं यस् तथ्यं मन्यते बुद्धि-वर्जितः
हसनीयः परेषां शाखारूढो जटी यथा ।।१७२।। [वृ.चा. .४९]
प्रेयांस् तेऽहं त्वम् अपि मे प्रेयसीति प्रवादस् त्वं मे प्राणा अहम् अपि तवास्मीति हन्त प्रलापः
त्वं मे ते स्याम् अहम् अपि यत् तच् नो साधु राधे व्याहारे नौ नहि समुचितो युष्मद् अस्मत्-प्रयोगः ।।२४५।।
प्रियम् एवाभिधातव्यं नित्यं सत्सु द्विषत्सु
शिखीव केका-मधुरः प्रिय-वाक् कस्य प्रियः ।।३३३।।





प्रयोजनेषु ये सक्ता विशेषेषु भारत
तान् अहं पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः ।।१४२।। [.भा. .२४४१]
प्रीणाति यः सुचरितैः पितरं पुत्रो यद् भर्तुर् एव हितम् इच्छति तत् कलत्रम्
तन् मित्रम् आपदि सुखे सम-क्रियं यद् एतत् त्रयं जगति पुण्य-कृतो लभन्ते ।।४७।। [भर्तृ.सं. २७९]
पुरा विद्वत्तासीद् अमलिन-धियां क्लेश-हतये गता कालेनासौ विषय-सुख-सिद्धौ विषयिणाम्
इदानीं सम्प्रेक्ष्य क्षिति-लव-भुजः शास्त्र-विमुखान् अहो कष्टं सापि प्रतिदिनम् अधोऽधः प्रविशति ।।४२।। [भर्तृ. .१००]
पूज्यो बन्धुर् अपि प्रियोऽपि तनयो भ्राता वयस्योऽपि वा मोहाद् अनवद्य-कार्य-विमुखो हेयः कार्यार्थिना
लोके हि प्रथिता ननु श्रुतिर् इयं नार्योऽपि गायन्ति यां किं कार्यं कनकेन तेन भवति च्छेदाय कर्णस्य यत् ।।५१।। [पञ्च. .२४०]
प्रत्यासत्तिं मद-करटिनो दान-गन्धेन वायुर् गर्जोद्भूतिं प्रकटित-रुचिश् चञ्चलेवाम्बुदस्य
चेष्टा स्पष्टं वदति मतिमन्-नैपुणोन्नेय-तत्त्वा जन्तोर् जन्मान्तर-परिचितां निश्चलां चित्त-वृत्तिम् ।।२७।। [रा.. .३५४]
प्रसादः कुरुते पत्युः सम्पत्तिं नाभिजानताम्
कालिमा काल-कूटस्य नापैति हर-सङ्गमात् ।।२८।। [हि. .१९]
प्रसादो निष्फलो यस्य क्रोधश् चापि निरर्थकः
तं भर्तारम् इच्छन्ति षण्ढं पतिम् इव स्त्रियः ।।२९।। [भो.प्र. ५७।
प्रजा-वृद्धं धर्म-वृद्धं स्व-बन्धुं विद्या-वृद्धं वयसा चापि वृद्धम्
कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन् मुह्येत् कदाचित् ।।३०।। [.भा. .१५५]
प्रिय-वचन-कृतोऽपि योषितां दयित-जनानुनयो रसाद् ऋते
प्रविशति हृदयं तद्-विदां मणिर् इव कृत्रिम-राग-योजितः ।।४४।। [?]
प्रत्युपस्थित-कालस्य सुखस्य परिवर्जनम्
अनागत-सुखाशा नैव बुद्धिमता नयः ।।५९।। [.भा. १२.५२८०]
पुरो रेवा-पारे गिरि-रति-रादु-रोह-शिखरो धनुर् बाणैः पश्चाच् छबर-कवरो धावति भृशम्
सरः सव्येऽसव्ये दव-दहन-दाह-व्यतिकरो गन्तुं स्थातुं हरिण-शिशुर् एवं विलपति ।।६८।। [नीति-रत्न ]
पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली-कपालीम् आदाय न्याय-गर्भं द्विज-हुत-हुतभुग्-धूम-धूम्रोपकण्ठम्
द्वारं द्वारं प्रविष्टो दरम् उदर-दरी-पूरणाय क्षुधार्तो मानी प्राणी सनाथो पुनर् अनुदिनं तुल्य-कुल्येषु दीनः ।।७६।। [भर्तृ. .२४]
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते
पूर्वं मृतं भर्तारं पश्चात् साद्यनुगच्छति ।।६०।। [.भा. .३०३३]
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यते ।।६१।। [चा.नी.सा. ९३]
प्रिया हिताश् ये राज्ञो ग्राह्य-वाक्या विशेषतः
आश्रयेत् पार्थिवं विद्वांस् तद्-द्वारेण नान्यथा ।।५७।। [पञ्च. .३२?]

1.11    

बन्धु-त्यागस् तनु-त्यागो देश-त्याग इति त्रिषु
आद्य्-अन्ताव् आयत-क्लेशौ मध्यमः क्षणिक-ज्वरः ।।१५७।।
बलीयसा हीन-बलो विरोधं भूति-कामो मनसापि वाञ्छेत्
वध्यतेऽत्यन्त-बलो हि यस्माद् व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ।।२२।। [पञ्च. .१२६]
बलोपपन्नोऽपि हि बुद्धिमान् नरः परं नयेन् स्वयम् एव वैरिताम्
भिषङ् ममास्तीति विचिन्त्य भक्षयेद् अकारणात् को हि विचक्सणो विषम् ।।२३।। [पञ्च. .१११]
बाहू द्वौ मृणालम् आस्य-कमलं लावण्य-लीला-जलं श्रोणी तीर्थ-शिला नेत्र-शफरं धम्मिल्ल-शैवालकम्
कान्तायाः स्तन-चक्रवाक-युगलं कन्दर्प-बाणानलैर् दग्धानाम् अवगाहनाय विधिना रम्यं सरो निर्मितम् ।।५५।। [शृ.ति. ]
बुद्धिश् हीयते पुंसां नीचैः सह समागमात्
मध्यमैर् मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।।७०।। [.भा. .३०]
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु
दाम्भिको दुष्कृत-प्राज्ञः शूद्रेण सदृशो भवेत् ।।१२१।। [.भा. .२०६.११]

1.12    

भार्या पुत्रश् दासश् त्रय एवाधनाः स्मृताः
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ।।५६।। [मनु. .४१६]
भवारण्यं भीमं तनु-गृहम् इदं छिद्र-बहुलं बली कालश् चौरो नियतम् असिता मोह-रजनी
गृहीत्वा ज्ञानासि विरति-फलकं शील-कवचं समाधानं कृत्वा स्थिरतर-दृशो जाग्रत जनाः ।।५८।। [?]
भार्यायां जनितं पुत्रम् आदर्शेष्व् इव चाननम्
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्य-कृत् ।।४८।। [?]
भार्यावन्तः क्रियावन्तः -भार्या गृह-मेधिनः
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ।।५३।। [.भा. .३०२९]
भीतवत् संविधातव्यं यावद् भयम् अनागतम्
आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् ।।१०।। [.भा. .५६२२]
भुञ्जानाः पवनं सरीसृप-गणाः प्रख्यापिता भोगिनो गायद्-भृङ्ग-निवारका निगदिता विस्तीर्ण-कर्णा गजाः
यश् चाभ्यन्तर-सम्भृतोष्म-विकृतिः प्रोक्तः शमी द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ।।११।। [रा.. .१९४]

1.13    

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ
यादृशी भावना यस्य सिद्धिर् भवति तादृशी ।।५४।। [विक्रम. ६४]
मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात् कालः सर्वम्
माया-मयम् इदम् अखिलं हित्वा ब्रह्म-पदं प्रविशाशु विदित्वा ।।१००।। [मोह-मुद्गर]
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ।।४५।।
मित्रं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीम् अपि जन्म-भूमिम्
संसज्य गच्छति विदेशम् अनिष्ट-लोकं वित्ताकुली-कृत-मतिः पुरुषोऽविलम्ब्य ।।१७८।।७ [पञ्च. .२६]
मित्र-स्वजन-बन्धूनां बुद्धेर् धैर्यस्य चात्मनः
आपन्-निकष-पाषाणे नरो जानाति सारताम् ।।२४।। [भो.प्र. १५६]
मित्राण्य् एव हि रक्षन्ति मित्रवान् नावसीदति
मित्राद् उत्पादितं वैरम् अपि मूलं निकृन्तति ।।२५।। [रा. .२०.१८]
मित्रार्थे बान्धवार्थे बुद्धिमान् यतते सदा
जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः ।।२६।। [पञ्च. .३४६]
मुखं प्रसन्नं विमला दृष्टिः कथानुरागो मधुरा वाणी
स्नेहोऽधिकः सम्भ्रम-दर्शनं सदानुरक्तस्य जनस्य चिह्नम् ।।१९।। [हि. .५९]
मूर्खा यत्र पूज्यन्ते धान्यं यत्र सुसञ्चितम्
दम्पत्योः कलहो नास्ति तत्रश्रीः स्वयम् आगता ।।१९०।। [बृ.चा. .२१]

मूलम् एवादितश् छिन्द्यात् पर-पक्षस्य नित्यशः
ततः सहायांस् तत्-पक्षान् सर्वांश् तद्-अनन्तरम् ।।१९२।। [.भा. .५५५७?]
मृदुर् आर्द्रः कृशो भूत्वा शनैः संलीयते रिपुः
वल्मीक इव वृक्षस्य पश्चान् मूलानि कृन्तति ।।१५१।। [.वं. ११६८]
महतो हि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः ।।२।। [भाव. ३१]
महद्भिः स्पर्धमानस्य विपद् एव गरीयसी
दन्त-भङ्गो हि नागानां श्लाघ्यो गिरि-विदारणे ।।३।। [पञ्च. .४०४]
मौढ्येन विपद्-आपन्नं मध्य-स्थं सुहृदं तथा
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत् सुधीः ।।१५४।। [कविता ७६]

1.14    

यन्-निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा
आयासो वा यतो मूलस् तद्-एकाङ्गम् अपि त्यजेत् ।।७।। [शा.. १४६१]
यन् निःशब्द-जला घनाश्म-परुषे देशेऽतिघोरारवा यच् चाच्छाः समये पयोद-मलिने कालुष्य-सन्दूषिताः
दृश्यन्ते कुल-निम्नगा अपि परं दिग्-देश-कालाव् इमौ तत् सत्यं महताम् अपि स्व-सदृशाचार-प्रवृत्ति-प्रदौ ।।८।। [रा.. .३०८]
यन् नम्रं सरलं चापि यच् चापत्सु सीदति
धनुर् मित्रं कलत्रं दुर्लभं शुद्ध-वंशजम् ।।१५।। [पञ्च. .१८८]
यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत्
कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ।।१६।। [हि. .]
यद् अप्य् उच्चैर् विजानीयान् नीचैस् तद् अपि कीर्तयेत्
कर्मणा तस्य वैशिष्ट्यं कथयेद् विनयान्वितः ।।१७।। [?]
यमो वैवस्वतस् तस्य निर्यातयति दुष्कृतम्
हृदि स्थितः कर्म-साक्षी क्षेत्रज्ञो यस्य तुष्यति ।।९।। [.भा. .३०१८]
यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद् वसेत्
उत्सृज्य तम् आवासं प्रतिष्ठेतापरेऽहनि ।।३१।। एवम् एव मनुष्याणां पिता माता गृहं वसु
आवास-मात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ।।३२।। [रा. .१०८.-]
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम्
एवं कर्म कर्ता संश्लिष्टाव् इतरेतरम् ।।३३।। [पञ्च. .१३६]
यथा फलानां पक्वानां नान्यस्य पतनाद् भयम्
एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ।।३४।। [?]
यथा बीजं विना क्षेत्रम् उप्तं भवति निष्फलम्
तथा पुरुष-कारेण विना दैवं सिध्यति ।।३५।। [.भा. १३.३०१]
यस् तु शूद्रो दमे सत्ये धर्मे सततोत्थितः
तं ब्राह्मणम् अहं मन्ये वृत्तेन हि भवेद् द्विजः ।।१२४।। [.भा. .२०६.१२]
यो नाना-द्युति-मत्-पदार्थ-रसिकोऽसारेऽपि शक्रायुधे -प्रेमा विलोक्य बर्हम् इह मे किं किं कुर्यात् प्रियम्
इत्य् आविष्कृत-बर्ह-राजि नटते यो बर्हिणोऽम्भोलवान् नान्यन् मुञ्चति तं विहाय जलदं कोऽन्योऽस्ति शून्याशयः ।।६३।। [रा.. .२१८]
योऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते
पाप-कृत्तमो लोके तेनात्मापहारकः ।।३६।। [मनु. .२५५]



1.15    

रामो हेम-मृगं वेत्ति नहुषो नो यान् युनक्ति द्विजान् विप्राद् एव -वत्स-धेनु-हरणे जाता मतिश् चार्जुने
द्यूते भ्रातृ-चतुष्टय-स्व-महिषीं धर्मात्मजो दत्तवान् प्रायः सत्-पुरुषो विनाश-समये बुद्ध्या परित्यज्यते ।।४१।। [वे. १५]
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता सत्यविना हयो गतिविना ज्योतिर् विना भूषणम्
योद्धा शूरविना तपो व्रतविना छन्दो विना गायनं भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ।।४३।। [सप्त-रत्न ]
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिल-कमलकं स्वल्पकं चापि मध्यम्
कुर्वन्त्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु स्वेदं यन् मां तस्या कपोलौ दहत इति मुहुः स्वच्छकौ तन् युक्तम् ।।६२।। [पञ्च. .२२१]

1.16    

लीलायन्त्यः कुलं घ्नन्ति कुलानीव सरिद्-वराः दोषान् सर्वांश् मत्याशु प्रजापतिर् अभाषत ।।४०।। [.भा. १३.१४७५]
लीलावतीनां सहजा विलासास् एव मूढस्य हृदि स्फुरन्ति
रागो नलिन्या हि निसर्ग-सिद्धस् तत्र भ्रमत्य् एव सुधा षडङ्घ्रिः ।।६९।। [?]
लोको वहति किं राजन् मूर्ध्ना दग्धुम् इन्धनम्
क्षालयन्न् अपि वृक्षाङ्घ्रीन् नदी-वेगो निकृन्तति ।।७२।। [हि. .६०]
लाक्षा-लक्ष्म ललाटाट्टम् अभितः केयूर-मुद्रा गले वक्रे कज्जल-कालिमा नयनयोस् ताम्बूल-रागोदयः
दृष्ट्वा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो लीला-तामरसोदरे मृददृशः श्वासाः समाप्तिं गताः ।।७४।। [अमरु. ६०]
लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः कान्तासङ्गो यजन-समतादुःख-हानिर् विलासः
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ।।७५।। [पञ्च. .९१]
लोभाद् एव नरा मूढा धन-विद्यान्विता अपि
अकृत्येषु वियोज्यन्ते भ्राम्यन्ते दुर्गमेष्व् अपि ।।२००।। [हि. .३४]







1.17    

वरं प्राण-त्यागो पिशुन-वाक्येष्व् अभिरुचिर्
वरं भिक्षाशित्वं पर-धनास्वादन-सुखम्
वरं मौनं कार्यं वचनम् उक्तं यद् अनृतं
वरं क्लैब्यं पुंसां पर-कलत्राभिगमनम् ।।६७।। [हि. .१३७]
वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते
तथा पापान् निगृह्णीयाद् व्रतम् एतद् धि वारुणम् ।।७३।। [रा. .१२२.१२]
वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा
शुचालं तप्यन्ते भृशम् उदर-ताडं जड-धियः
असारे संसारे विरस-परिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वन् शम-सुखम् ।।३८।। [प्र. ९५]
विदग्धानां गोष्ठीष्व् अकृत-परिचर्याश् खलु ये
भवेयुस् ते किं वा पर-भणिति-कण्डूति-निकषाः ।।१५२।।
विधिर् एव हि जागर्ति भव्यानाम् अर्थ-सिद्धये
असंचेतयमानानां सद्-भृत्याः स्वामिनाम् इव ।।३९।। [?]
विनयेन विना का श्रीः का निशा शशिना विना
रहिता सत्-कवित्वेन कीदृशी वाग्-विदग्धता ।।६५।। [?]
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निग्ध-प्रयुक्ताशिषां
कार्याणां नय-साहसोन्नति-मताम् इच्छा-पदारोहिणाम्
मानोत्सेक-पराक्रम-व्यसनिनः पारं यावद्-गताः
सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ।।७१।। [पञ्च. .२५३]
व्याधिभिर् मथ्यमानानां३ त्यजतां विपुलं धनम्
वेदनां नापकर्षन्ति यतमानाश् चिकित्सकाः ।।११५।। [.भा. १२.३१८.३०]

1.18    

शक्नोति कुम्भ-निहितः सुशिखोऽपि दीपो
भावान् प्रकाशयितुम् अप्य् उदरे गृहस्य ।।८५।। [?]
शमयति गजान् अन्यान् गन्ध-द्विपः कलभोऽपि सन्
प्रभूतितरां वेगोदग्रं भुजङ्ग-शिशोर् विषम्
भुवम् अधिपतिर् बालावस्थोऽप्य् अलं परिरक्षितुं
खलु वयसा जात्यैवायं स्व-कार्य-सहो गणः ।।११८।। [विक्रमोर्वशीय .१८]
शरीरम् एवायतनं सुखस्य दुःखस्य चाप्य् आयतनं शरीरम्
यद् यच् छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत् ।।६४।। [.भा. १२.५४७८]
शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते
प्रमदाः पति-वर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि ।।६६।। [कु.सं. .३३]
शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति
तस्य जीवितेनार्थो धनेन बन्धुभिः ।।१।। [.भा. .३४.४६]
शान्तेऽनन्त-महिम्नि निर्मल-चिद्-आनन्दे तरङ्गावली-
निर्मुक्तेऽमृत-सागराम्भसि मनाङ् मग्नोऽपि नाचामति
निःसारे मृगतृष्णिकार्णव-जले श्रान्तो विमूढः पिबत्य्
आचामत्य् अवागहतेऽभिरमते मज्जत्य् अथोन्मज्जति ।।३७।। [?]
शुभ्रं सद्य सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीर् इत्य् अनुभूयते स्थिरम् इव स्फीते शुभे कर्मणि
विच्छिन्ने नितराम् अनङ्ग-कलह-क्रीडा-त्रुटत्-तन्तुकं
मुक्ता-जालम् इव प्रयाति झटिति भ्रश्यद्-दिशो दृश्यताम् ।।१४।। [भर्तृ. .९५]

1.19    

एव खलु दारुभ्य यदा निर्मथ्य दीप्यते
तद् दारु वनं चान्यन् निर्दहत्य् आशु तेजसा ।।१११।। [.भा. .३७.५७]
सकृज् जल्पन्ति राजानः सकृज् जल्पन्ति साधवः
सकृत् कन्याः प्रदीयन्ते त्रीण्य् एतानि सकृत् सकृत् ।।१८।। [वे. ३४]
संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण तु
परोपकारः पुण्याय पापाय पर-पीडनम् ।।१३।। [?]
सत्-क्षेत्र-प्रतिपादितः प्रिय-वचो-बद्धालवालावलिर् |
निर्दोषेण मनः-प्रसाद-पयसा निष्पन्न-सेक-क्रियः||
दातुस् तत् तद् अभीप्सितं किल फलन् कालेऽतिचालोऽप्य् असौ
राजन् दान-महीरुहो विजयते कल्प-द्रुमादीन् अपि ।।७९।। [सु. ३०२८]
सत्यश् चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम्
पितॄन् समनुजायन्ते नरा मातरम् अङ्गनाः ।।१८४।। [रा. .३५.२८]

सन्तः सच्-चरितोदय-व्यसनिनः प्रादुर्भवद् यन्त्रणाः सर्वत्रैव जनापवाद-चकिता जीवन्ति दुःखं सदा
अव्युत्पन्न-मतिः कृतेन सता नैवासता व्याकुलो युक्तायुक्त-विवेक-शून्य-हृदयो धन्यो जनः प्राकृतः ।।१२७।। [दशरूपक .१८]
सुखम् एव हि दुःखान्तं कदाचिद् दुःखतः सुखम्
तस्माद् एतद् द्वयं जह्याद् इच्छेच् छाश्वतं सुखम् ।।२०४।। [.भा. १२.७५५?]

सुखार्थी नागारि-प्रतिभय-शमात् प्रत्युत सुखं जहौ शेषस् तल्पीकृत-तनु निषेव्यासुर-रिपुम्
यतस् तेनामुष्मिन्न् अधिगतवता क्लेश-सहतां श्रमा-धायि न्यस्तं निरवधि धरा-भार-वहनम् ।।२०७।। [रा.. .२१५]
सुखास्वाद-परो यस् तु संसारे सत्-समागमः
वियोगावसानत्वाद् दुःखानां धुरि युज्यते ।।५०।। [हि. .७७]
सुख-दुःखानि भूतानाम् अजरो जरयत्य् असौ
आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति ।।२१०।। [.भा. १२.३१८.]

सुख-दुःखे समे स्यातां जन्तूनां क्लेश-हेतुके
मूर्ध्नि तापिन् केशानां भवेतां स्नेह-च्छेदने ।।२१३।। [दृ.. ४७]

सुख-दुःखे हि पुरुषः पर्यायेणोपसेवते
ह्य् अनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ ।।२१६।। [बृ.चा. .१३]

सुखं दुःखान्तम् आलस्यं दाक्ष्यं दुःखं सुखोदयम्
भूतिः श्रीर् ह्रीर् धृतिः सिद्धिर् नादक्षे निवसन्त्य् उत ।।२१९।। [.भा. १२.२७.३०]
सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः प्रिया-वक्त्राम्भोजं मलयज-रजश् चातिसुरभि
स्रजो हृद्यामोदास् तद् इदम् अखिलं रागिणि जने करोत्य् अन्तः-क्षोभं तु विषय-संसर्ग-विमुखे ।।५२।।
स्तन-तटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम्
विषमे मृग-शावाक्ष्या वपुषि नवे इव स्खलति ।।१३३।।
स्तनयोर् जघनस्यापि मध्ये मध्यं प्रिये तव
अस्ति नास्तीति सन्देहो मेऽद्यापि निवर्तते ।।१३६।। [काव्या. .२१७] अनित्ये प्रिय-संवासे संसारे चक्रवद् गतौ
पथि संगतम् एवैतद् भ्राता माता पिता सखा ।।१७३।।

1.20    

हिंसकान्य् अपि भूतानि यो हिनस्ति निर्घृणः
याति नरकं घोरं किं पुनर् यः शुभानि ।।४९।। [पञ्च. .१६]
ह्यः पश्यद्भिर् अकारण-स्मित-सितं पाथोज-कोशाकृति श्मश्रूद्बोध-कठोरम् अद्य रभसाद् उत्तप्त-ताम्र-प्रभम्
प्रातर् जीर्ण-बलक्ष-केश-विकृतं वृद्धाज-शीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवम् इदं भूतैश् चिर-स्थायिभिः ।।१३०।। [?]













वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश् चापि नियुज्यमानः
प्रज्ञाभिमानी प्रतिकूल-वादी त्याज्यः तादृक् त्वरयैव भृत्यः ।।२२०।। [?]

सुखम् आपतितं सेवेद् दुःखम् आपतितं सहेत्
कालप्राप्तम् उपासीत सस्यानाम् इव कर्षकः ।।२२२।। [.भा. .२४५.१५]

सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम्
अनित्यत्वाद् हि चित्तानां प्रीतिर् अल्पेन भिद्यते ।।२२५।।

यथा शरीरम् एवेदं जल-बुद्बुद-संनिभम्
प्रवात-दीप-चपलास् तथा कस्य कृते श्रियः ।।२२८।। [कथा.. २२.४०]
यथा हि पुरुषः कुर्याच् छरीरे यत्नम् उत्तमम्
वसनाद्यैर् उपायैस् तु तथा राज्ये नराधिपः ।।२२९।। [सं.पाठोप. ५६]

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम्
नाना-रूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ।।२३२।। [याज्ञ. .१६२]

बुद्धिः प्रभावस् तेजश् सत्त्वम् उत्थानम् एव
व्यवसायश् यस्य स्यात् तस्यावृत्ति भयं कुतः ।।२३५।। [.भा. .३७.३७]

बुद्धिमन्तं कृत-प्रज्ञं शुश्रूसुम् अनसूयकम्
दान्तं जितेन्द्रियं चापि शोको स्पृशते नरम् ।।२३७।। [.भा. १२.१६८.३२]
बुद्धिमन्तं मूढं शूरं भीरुं जदं कविम्
दुर्बलं बलवन्तं भागिनं भजते सुखम् ।।२३८।। [.भा. १२.१६८.२२]
बुद्धि-रूप-गुणायुष्मत्-पुत्रान् विद्या-विशारदान्
प्राप्नुवन्ति नराः सर्वे सुकृतैः पूर्व-जन्मनि ।।२३९।। [प्रसङ्गा.
बुद्धि-श्रेष्ठानि कर्माणि बाहु-मध्यानि भारत
तानि जङ्घा जघन्यानि भार-प्रत्यवराणि ।।२४०।। [.भा. .३५.६५]
दिशो वासः पात्रं कर-कुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम्
कदैतत् सम्पूर्णं मम हृदय-वृत्तेर् अभिमतं भविष्यत्य् उग्रं परम-परितोषोपचितये ।।२४१।।
तपः-सीमा मुक्तिः सकल-गुण-सीमा वितरणं कला-सीमा काव्यं जनन-सुख-सीमा सुवदना
भियः सीमा मृत्युः सुकृत-कुल-सीमाश्रित-भृतिः क्षुधा-सीमान् नान्तः श्रुति-मुख-सीमा हरि-कथा ।।२४२।। [प्रसङ्गा. १०]
यदा विनाश-कालो वै लक्ष्यते दैव-निर्मितः
तदा वै विपरीतेषु मनः प्रकुरुते नरः ।।२४३।। [रा. .६२.२०]
व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किल-भवापि दुरासदापि
गन्धेन बन्धुर् असि केतकि सर्वजन्तोर् एको गुणः खलु निहन्ति समस्त-दोषान् ।।२४४।। [बृ.चा. १७.२१]

उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर् नरैः
शत्रुवत् पतितं को नु वन्दते मानवं पुनः ।।२४६।।
उत्पततोऽप्य् अन्तरिक्षं गच्छतोऽपि महीतलम्
धावतः पृथिवीं सर्वां नादत्तम् उपतिष्ठति ।।२४७।।
उत्पन्नम् आपदं यस् तु समाधत्ते बुद्धिमान्
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ।।२४८।।
उपशम-फलाद् विद्या-बीजात् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम्
नियत-विषयाः सर्वे भावा यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं जातु यवाङ्कुरम् ।।२४९।।
एकः स्वादु भुञ्जीत एकश् चार्थान् चिन्तयेत्
एको गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् ।।२५०।।
एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ।।२५१।।
एकाकी निःस्पृहः शान्तः पाणि-पात्रो दिगम्बरः
कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ।।२५२।।
द्वाव् इमौ विराजेते विपरीतेन कर्मणा
गृहस्थश् न्रारम्भः कार्यवांश् चैव भिक्षुकः ।।२५३।।
आहरयति स्वस्थो विनिद्रो प्रबुध्यते
वक्ति स्वेच्छया किञ्चित् सेवकोऽपीह जीवति ।।२५४।।
आयस्य तुर्य-भागेन व्यय-कर्म प्रवर्तयन्
अन्यून-तैल-दीपोऽपि चिरं भद्राणि पश्यति ।।२५५।।
आयत्यां गुण-दोषज्ञस् तदात्वे क्षिप्र-निश्चयः
अतीते कार्य-शेषज्ञः शत्रुभिर् नाभिभूयते ।।२५६।।
आयत्यां तदात्वे यत् स्याद् आस्वाद-पेशलम्
तद् एव तस्य कुर्वीत लोक-द्विष्टम् आचरेत् ।।२५७।।
एतत् काम-फलं लोके यद् द्वयोर् एक-चित्तता
अन्य-चित्त-कृते कामे शवयोर् इव सङ्गमः ।।२५८।।
एतस्माद् अमृतं सुरैः शत-मखेनोच्चैःश्रवाः सद्-गुणः कृष्णेनाद्भुत-विक्रमैक-वसतिर् लक्ष्मीः समासादिता
इत्य् आदि प्रचुराः पुरातन-कथाः सर्वेभ्य एव श्रुता अस्माभिस् तु दृष्टम् अत्र जलधौ मिष्टं पयोऽपि क्वचित् ।।२५९।।
धैर्यं हि कार्यं सततं महद्भिः कृच्छ्रेऽपि कष्टेऽप्य् अतिसङ्कटेऽपि
कृच्छ्राण्य् अकृच्छ्रेण समुत्तरन्ति धैर्योच्छ्रिता ये प्रतिपत्ति-दक्षाः ।।२६०।।
देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि
आलोकयन्ति यावत् स्याद् अस्ति नास्तीति क्वचित् ।।२६१।।
एके सत्-पुरुषाः परार्थ-घटकाः स्वार्थं परित्यज्य ये सामान्यास् तु परार्थम् उद्यम-भृतः स्वार्थाविरोधेन ये
तेऽमी मानुष-राक्षसाः पर-हितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं पर-हितं ते के जामीमहे ।।२६२।।
देवस्याम्बु-मुचश् नास्ति नियमः कोऽप्य् आनुकूल्यं प्रति व्यञ्जन् यः प्रियम् उत्कटं घटयते जन्तोः क्षणाद् अप्रियम्
क्षिप्रं दीर्घ-निदाघ-वासर-वियत्-सन्ताप-निर्वापणां प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्-विसर्गं सः ।।२६३।। [सूक्ति. १०५.]
देवी श्रीर् जनकात्मजा दश-मुखस्यासीद् गृहे रक्षसो नीता चैव रसातलं भगवती वेद-त्रयी दानवैः
गन्धर्वस्य मदालसां तनयां पाताल-केतु-च्छलाद् दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर् वृत्तयः ।।२६४।।
किम् अशक्यं बुद्धिमतां किम् असाध्यं निश्चयं दृढं दधताम्
किम् अशक्यं प्रिय-वचसां किम् अलभ्यंम् इहोद्यम-स्थानाम् ।।२६५।।
गन्धाप्य् असौ भुवन-विदिता केतकी स्वर्ण-वर्णा पद्म-भ्रान्त्या चपल-मधुपः पुष्प-मध्ये पपात
अन्धीभूत्ः कुसुम-रजसा कण्टकैर् लून-पक्षः स्थातुं गन्तुं द्वयम् अपि सखे नैव शक्तो द्विरेफः ।।२६६।। [पद्म.सृ. १९]
गवार्थे ब्राह्मणार्थे स्वाम्य्-अर्थे स्त्री-कृतेऽथवा
स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः ।।२६७।।
गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः
चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः ।।२६८।। [विक्र्. ११७]
त्यागो गुणो गुण-शताभ्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि
शौर्यं नाम यदि तत्र नमोऽस्तु तस्मै तच् त्रयं यदीर्ष्यति चित्रम् एतत् ।।२६९।।
त्याज्यं सुखं विषय-सङ्गम-जन्म पुंसां दुःखोपसृष्टम् इति मूर्ख विचारणैषा
व्रीहीं जिहासति सिस्थित-तुण्डलाढ्यान् को नाम भोस् तुष-कणोपहितान् हितार्थी ।।२७०।।
दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच् वित्तम्
शास्त्रं यस्योशनसा प्रणीतं रावणो दैव-वशाद् विपन्नः ।।२७१।। [गरुड.. ११३]
कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः
तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ।।२७२।। [हि. .१०६]
किं गजेन प्रभिन्नेन राज-कर्माण्य् अकुर्वता
स्थूलोऽपि यदि वास्थूलः श्रेयान् कृत्य-करः पुमान् ।।२७३।।
किं चन्दनैः -कर्पूरैस् तुहिनैः शीतैश् किम्
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ।।२७४।। [शृ.ति. .]
नोपभोक्तुं त्यक्तुं शक्नोति विषयान् जरी
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ।।२७५।। [हि. .११३]
नो सत्येन मृगाङ्क एष वदनी-भूतो चेन्दीवर- द्वन्द्वं लोचनतां गत कनकैर् अप्य् अङ्ग-यष्टिः कृता
किन्त्व् एवं कविभिः प्रतारित-मनास् तत्त्वं विजानन्न् अपि त्वङ्-मांसास्थि-मयं वपुर् मृग-दृशां मन्दो जनः सेवते ।।२७६।। [शृ.. ४६]
दायादा व्यय-भीरुता-परिहृतारब्धेर् भवन्त्य् उन्नता भृत्याः प्रत्युपकार-कातर-मतेः कुर्युर् कोऽपि प्रियम्
राशी-भूत-धनस्य जीवित-हृतौ शश्वद् यतेरन् निजा भू-भर्तुः क्रियते द्विषेव रभसाल् लोभेन किं नाप्रियम् ।।२७७।। [रा.. .१९०]
कोकिलोऽहं भवान् काकः समानः कालिमावयोः
अन्तरं कथयिष्यन्ति काकली-कोविदाः पुनः ।।२७८।। [सा.. १०.५९]
क्व दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद्-गतः क्व जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा
क्व करतलाज् जातो वैण्यः क्व सूर्य-तनुर् मनुर् ननु बलवता कालेनैते प्रबध्य निमीलिताः ।।२७९।। [पञ्च. .२५३]
आदीर्घेण चलेन वक्र-गतिना तेजस्विना योगिना नीलाब्ज-द्युतिनाहिना वरम् अहं दृश्यो९ तच् चक्षुषा
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षण-वीक्षितस्य नहि मे वैद्यो चाप्य् औषधम् ।।२८०।। [शृ.. ५५]
आदौ चित्ते ततः काये सतां संजायते जरा
असतां पुनः काये नैव चित्ते कदाचन ।।२८१।। [पञ्च. .१७७]
अत्युक्तिं रहसि गतं विचित्र-मत्येन भाषमाणं
उचित-प्रणयम् अपि नृपं सहसार्या नोपसर्पन्ति ।।२८२।।
दुर्जन-सङ्गतिर् अनर्थ-परम्पराया हेतुः सताम् अधिगतं वचनीयम् अत्र
लङ्केश्वरे हरति दाशरथेः कलत्रं प्राप्नोति बन्धम् अघ दक्षिण-सिन्धु-राजः ।।२८३।। [विक्रम १९७]
जलौकयोपनीयन्ते प्रमदा मन्द-बुद्धिभिः
मृगीदृशां जलाकानां विचारान् महद् अन्तरम् ।।२८४।। [काशीखण्ड .८५]
जलौका केवलं रक्तम् आददाना तपस्विनाम्
प्रमदा सर्वम् आदत्ते चित्तं वित्तं बलं सुखम् ।।२८५।। [काशीखण्ड .८६]
कुलं वृत्तं शौर्यं सम् एतन् गण्यते
दुर्वृत्तेऽप्य् अकुलीनेऽपि जनो दातरि रज्यते ।।२८६।। [कामं. नी. .६०]
दाता लघुर् अपि सेव्यो भवति कृपणो महान् अपि समृद्ध्या
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य समुद्रः ।।२८७।। [पञ्च .८५]
निःश्वासोद्गीर्ण-हुतभुग्-धूम-धूम्रीकृताननैः
वरम् आशी-विषैः सङ्गं कुर्यान् त्व् एव दुर्जनैः ।।२८८।। [का.नी. .१८]
किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः
इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं रुदितं क्षिप्ताश् पुष्प-स्रजः ।।२८९।। [शृङ्गार-तिलकः .७५]






Om Tat Sat

(Continued ...)



(My humble salutations to  the lotus feet of Holy Sages of Hindu soil for the collection)